библиотека
индекс
Шрилы Прабхупады
ИСККОН
Языки
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Aвторов
Книги
Oсновной Книги
Cправочники kниги
Oчерк
Рассказы ачарьев
Философия Ачарьев
Из Шрила Прабхупада
Великая классика
О Шриле Прабхупаде
Рассказы учеников Прабхупады
Философские ученики Прабхупады
Журналы
Другие места
Виртуальный храм ИСККОН
Виртуальный Истагости
Вайнавский календарь
Кришна-Вест
Бхагавад-гита - как она есть
В процессе
<<
8 - Достижение обители Всевышнего
>>
перевод
Tранслитерация
деванагари
8.1
अर्जुन उवाच
.
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
.
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ १ ॥
8.2
अधियज्ञः कथं कॊ ऽतर देहे ऽसमिन मधुसूदन
.
परयाणकाले च कथं जञेयॊ ऽसि नियतात्मभिः
8.3
श्रीभगवानुवाच
.
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
.
भूतभावोद्भवकरो विसर्ग: कर्मसंज्ञित: ॥ ३ ॥
8.4
अधिभूतं क्षरो भाव: पुरुषश्चाधिदैवतम् ।
.
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ४ ॥
8.5
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।
.
य: प्रयाति स मद्भावं याति नास्त्यत्र संशय: ॥ ५ ॥
8.6
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
.
तं तमेवैति कौन्तेय सदा तद्भावभावित: ॥ ६ ॥
8.7
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
.
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशय: ॥ ७ ॥
8.8
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
.
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८ ॥
8.9
कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्य: ।
.
सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमस: परस्तात् ॥ ९ ॥
8.10
प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव ।
.
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥
8.11
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागा: ।
.
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ११ ॥
8.12
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
.
मूध्न्र्याधायात्मन: प्राणमास्थितो योगधारणाम् ॥ १२ ॥
8.13
ॐ इत्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
.
य: प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ १३ ॥
8.14
अनन्यचेता: सततं यो मां स्मरति नित्यश: ।
.
तस्याहं सुलभ: पार्थ नित्ययुक्तस्य योगिन: ॥ १४ ॥
8.15
मामुपेत्य पुनर्जन्म दु:खालयमशाश्वतम् ।
.
नाप्नुवन्ति महात्मान: संसिद्धिं परमां गता: ॥ १५ ॥
8.16
आब्रह्मभुवनाल्लोका: पुनरावर्तिनोऽर्जुन ।
.
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥
8.17
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदु: ।
.
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जना: ॥ १७ ॥
8.18
अव्यक्ताद् व्यक्तय: सर्वा: प्रभवन्त्यहरागमे ।
.
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥
8.19
भूतग्राम: स एवायं भूत्वा भूत्वा प्रलीयते ।
.
रात्र्यागमेऽवश: पार्थ प्रभवत्यहरागमे ॥ १९ ॥
8.20
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातन: ।
.
य: स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥
8.21
अव्यक्तोऽक्षर इत्युक्तस्तमाहु: परमां गतिम् ।
.
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥
8.22
पुरुष: स पर: पार्थ भक्त्या लभ्यस्त्वनन्यया ।
.
यस्यान्त:स्थानि भूतानि येन सर्वमिदं ततम् ॥ २२ ॥
8.23
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिन: ।
.
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥
8.24
अग्निर्ज्योतिरह: शुक्लः षण्मासा उत्तरायणम् ।
.
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना: ॥ २४ ॥
8.25
धूमो रात्रिस्तथा कृष्ण: षण्मासा दक्षिणायनम् ।
.
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ २५ ॥
8.26
शुक्लकृष्णे गती ह्येते जगत: शाश्वते मते ।
.
एकया यात्यनावृत्तिमन्ययावर्तते पुन: ॥ २६ ॥
8.27
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
.
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७ ॥
8.28
वेदेषु यज्ञेषु तप:सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् ।
.
अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ २८ ॥
<< предыдущий
|
Cледующий >>
другие языки:
Языковые пары:
Получить книгу:
Aвторское право:
Help:
Пожертвовать библиотеке Бхактиведанты