библиотека
индекс
Шрилы Прабхупады
ИСККОН
Языки
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Aвторов
Книги
Oсновной Книги
Cправочники kниги
Oчерк
Рассказы ачарьев
Философия Ачарьев
Из Шрила Прабхупада
Великая классика
О Шриле Прабхупаде
Рассказы учеников Прабхупады
Философские ученики Прабхупады
Журналы
Другие места
Виртуальный храм ИСККОН
Виртуальный Истагости
Вайнавский календарь
Кришна-Вест
Бхагавад-гита - как она есть
В процессе
<<
7 - Познание Абсолюта
>>
перевод
Tранслитерация
деванагари
7.1
श्रीभगवानुवाच
.
मय्यासक्तमना: पार्थ योगं युञ्जन्मदाश्रय: ।
.
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥
7.2
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषत: ।
.
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ २ ॥
7.3
मनुष्याणां सहस्रेषु कश चिद यतति सिद्धये
.
यतताम अपि सिद्धानां कश चिन मां वेत्ति तत्त्वतः ॥ ३ ॥
7.4
भूमिरापोऽनलो वायु: खं मनो बुद्धिरेव च ।
.
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ४ ॥
7.5
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
.
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ५ ॥
7.6
एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
.
अहं कृत्स्नस्य जगत: प्रभव: प्रलयस्तथा ॥ ६ ॥
7.7
मत्त: परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।
.
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७ ॥
7.8
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययो: ।
.
परणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु
7.9
पुण्यो गन्ध: पृथिव्यां च तेजश्चास्मि विभावसौ ।
.
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ९ ॥
7.10
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम
.
बुद्धिर बुद्धिमताम अस्मि तेजस तेजस्विनाम अहम ॥ १० ॥
7.11
बलं बलवतां चाहं कामरागविवर्जितम् ।
.
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ११ ॥
7.12
ये चैव सात्त्विका भावा राजसास तामसाश च ये
.
मत्त एवेति तान विद्धि न तव अहं तेषु ते मयि ॥ १२ ॥
7.13
त्रिभिर्गुणमयैर्भावैरेभि: सर्वमिदं जगत् ।
.
मोहितं नाभिजानाति मामेभ्य: परमव्ययम् ॥ १३ ॥
7.14
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
.
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १४ ॥
7.15
न मां दुष्कृतिनो मूढा: प्रपद्यन्ते नराधमा: ।
.
माययापहृतज्ञाना आसुरं भावमाश्रिता: ॥ १५ ॥
7.16
चतुर्विधा भजन्ते मां जना: सुकृतिनोऽर्जुन ।
.
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ १६ ॥
7.17
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
.
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय: ॥ १७ ॥
7.18
उदारा: सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
.
आस्थित: स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ १८ ॥
7.19
भूतग्राम: स एवायं भूत्वा भूत्वा प्रलीयते ।
.
रात्र्यागमेऽवश: पार्थ प्रभवत्यहरागमे ॥ १९ ॥
7.20
-कामैस्तैस्तैर्हृतज्ञाना: प्रपद्यन्तेऽन्यदेवता: ।
.
तं तं नियममास्थाय प्रकृत्या नियता: स्वया ॥ २० ॥
7.21
यो यो यां यां तनुं भक्त: श्रद्धयार्चितुमिच्छति ।
.
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ २१ ॥
7.22
स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
.
लभते च तत: कामान्मयैव विहितान्हि तान् ॥ २२ ॥
7.23
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
.
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ २३ ॥
7.24
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धय: ।
.
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ २४ ॥
7.25
नाहं प्रकाश: सर्वस्य योगमायासमावृत: ।
.
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ २५ ॥
7.26
वेदाहं समतीतानि वर्तमानानि चार्जुन ।
.
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ २६ ॥
7.27
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
.
सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ २७ ॥
7.28
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
.
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रता: ॥ २८ ॥
7.29
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
.
ते ब्रह्म तद्विदु: कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ २९ ॥
7.30
साधिभूताधिदैवं मां साधियज्ञं च ये विदु: ।
.
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतस: ॥ ३० ॥
<< предыдущий
|
Cледующий >>
другие языки:
Языковые пары:
Получить книгу:
Aвторское право:
Help:
Пожертвовать библиотеке Бхактиведанты