библиотека
индекс
Шрилы Прабхупады
ИСККОН
Языки
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Aвторов
Книги
Oсновной Книги
Cправочники kниги
Oчерк
Рассказы ачарьев
Философия Ачарьев
Из Шрила Прабхупада
Великая классика
О Шриле Прабхупаде
Рассказы учеников Прабхупады
Философские ученики Прабхупады
Журналы
Другие места
Виртуальный храм ИСККОН
Виртуальный Истагости
Вайнавский календарь
Кришна-Вест
Бхагавад-гита - как она есть
В процессе
<<
6 - Дхьяна-йога
>>
перевод
Tранслитерация
деванагари
6.1
श्रीभगवानुवाच
.
अनाश्रित: कर्मफलं कार्यं कर्म करोति य: ।
.
स सन्न्यासी च योगी च न निरग्निर्न चाक्रिय: ॥ १ ॥
6.2
यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
.
न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन ॥ २ ॥
6.3
आरुरुक्षॊर मुनेर यॊगं कर्म कारणम उच्यते
.
यॊगारूढस्य तस्यैव शमः कारणम उच्यते
6.4
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
.
सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते ॥ ४ ॥
6.5
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
.
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मन: ॥ ५ ॥
6.6
बन्धुर आत्मात्मनस तस्य येनात्मैवात्मना जितः
.
अनात्मनस तु शत्रुत्वे वर्तेतात्मैव शत्रुवत
6.7
जितात्मन: प्रशान्तस्य परमात्मा समाहित: ।
.
शीतोष्णसुखदु:खेषु तथा मानापमानयो: ॥ ७ ॥
6.8
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रिय: ।
.
युक्त इत्युच्यते योगी समलोष्ट्राश्मकाञ्चन: ॥ ८ ॥
6.9
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु
.
साधुष्व अपि च पापेषु समबुद्धिर विशिष्यते
6.10
योगी युञ्जीत सततमात्मानं रहसि स्थित: ।
.
एकाकी यतचित्तात्मा निराशीरपरिग्रह: ॥ १० ॥
6.11-12
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मन: ।
.
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ११ ॥
.
तत्रैकाग्रं मन: कृत्वा यतचित्तेन्द्रियक्रिय ।
.
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ १२ ॥
6.13-14
समं कायशिरोग्रीवं धारयन्नचलं स्थिर: ।
.
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ १३ ॥
.
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थित: ।
.
मन: संयम्य मच्चित्तो युक्त आसीत मत्पर: ॥ १४ ॥
6.15
युञ्जन्नेवं सदात्मानं योगी नियतमानस: ।
.
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ १५ ॥
6.16
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नत: ।
.
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ १६ ॥
6.17
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
.
युक्तस्वप्नावबोधस्य योगो भवति दु:खहा ॥ १७ ॥
6.18
यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।
.
निस्पृह: सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ १८ ॥
6.19
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
.
योगिनो यतचित्तस्य युञ्जतो योगमात्मन: ॥ १९ ॥
6.20-23
यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
.
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ २० ॥
.
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् ।
.
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वत: ॥ २१ ॥
.
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं तत: ।
.
यस्मिन्स्थितो न दु:खेन गुरुणापि विचाल्यते ॥ २२ ॥
.
तं विद्याद्दु:खसंयोगवियोगं योगसंज्ञितम् ॥ २३ ॥
6.24
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ।
.
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषत: ।
.
मनसैवेन्द्रियग्रामं विनियम्य समन्तत: ॥ २४ ॥
6.25
शनैः शनैर उपरमेद बुद्ध्या धृतिगृहीतया
.
आत्मसंस्थं मनः कृत्वा न किं चिद अपि चिन्तयेत
6.26
यतॊ यतॊ निश्चरति मनश चञ्चलम अस्थिरम
.
ततस ततॊ नियम्यैतद आत्मन्य एव वशं नयेत
6.27
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
.
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ २७ ॥
6.28
युञ्जन्नेवं सदात्मानं योगी विगतकल्मष: ।
.
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ २८ ॥
6.29
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
.
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शन: ॥ २९ ॥
6.30
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
.
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ३० ॥
6.31
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थित: ।
.
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ३१ ॥
6.32
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
.
सुखं वा यदि वा दु:खं स योगी परमो मत: ॥ ३२ ॥
6.33
अर्जुन उवाच
.
योऽयं योगस्त्वया प्रोक्त: साम्येन मधुसूदन ।
6.34
चञ्चलं हि मन: कृष्ण प्रमाथि बलवद्दृढम् ।
.
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ ३४ ॥
6.35
श्रीभगवानुवाच
.
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
.
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ३५ ॥
6.36
असंयतात्मना योगो दुष्प्राप इति मे मति: ।
.
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायत: ॥ ३६ ॥
6.37
अर्जुन उवाच
.
अयतिः शरद्धयॊपेतॊ यॊगाच चलितमानसः
.
अप्राप्य यॊगसंसिद्धिं कां गतिं कृष्ण गच्छति
6.38
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।
.
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मण: पथि ॥ ३८ ॥
6.39
एतन मे संशयं कृष्ण छेत्तुम अर्हस्य अशेषतः
.
तवदन्यः संशयस्यास्य छेत्ता न हय उपपद्यते
6.40
शरीभगवान उवाच
.
पार्थ नैवेह नामुत्र विनाशस तस्य विद्यते
.
न हि कल्याणकृत कश चिद दुर्गतिं तात गच्छति
6.41
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वती: समा: ।
.
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ४१ ॥
6.42
अथवा योगिनामेव कुले भवति धीमताम् ।
.
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ४२ ॥
6.43
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
.
यतते च ततो भूय: संसिद्धौ कुरुनन्दन ॥ ४३ ॥
6.44
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि स: ।
.
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ४४ ॥
6.45
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिष: ।
.
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ४५ ॥
6.46
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिक: ।
.
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ ४६ ॥
6.47
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
.
श्रद्धावान्भजते यो मां स मे युक्ततमो मत: ॥ ४७ ॥
.
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ ३३ ॥
<< предыдущий
|
Cледующий >>
другие языки:
Языковые пары:
Получить книгу:
Aвторское право:
Help:
Пожертвовать библиотеке Бхактиведанты