библиотека
индекс
Шрилы Прабхупады
ИСККОН
Языки
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Aвторов
Книги
Oсновной Книги
Cправочники kниги
Oчерк
Рассказы ачарьев
Философия Ачарьев
Из Шрила Прабхупада
Великая классика
О Шриле Прабхупаде
Рассказы учеников Прабхупады
Философские ученики Прабхупады
Журналы
Другие места
Виртуальный храм ИСККОН
Виртуальный Истагости
Вайнавский календарь
Кришна-Вест
Бхагавад-гита - как она есть
В процессе
<<
9 - Самое сокровенное знание
>>
перевод
Tранслитерация
деванагари
9.1
श्रीभगवानुवाच
.
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
.
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १ ॥
9.2
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
.
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥
9.3
अश्रद्दधाना: पुरुषा धर्मस्यास्य परन्तप ।
.
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३ ॥
9.4
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
.
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थित: ॥ ४ ॥
9.5
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
.
भूतभृन्न च भूतस्थो ममात्मा भूतभावन: ॥ ५ ॥
9.6
यथाकाशस्थितो नित्यं वायु: सर्वत्रगो महान् ।
.
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥
9.7
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
.
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ७ ॥
9.8
प्रकृतिं स्वामवष्टभ्य विसृजामि पुन: पुन: ।
.
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८ ॥
9.9
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
.
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥
9.10
मयाध्यक्षेण प्रकृति: सूयते सचराचरम् ।
.
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥
9.11
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
.
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥
9.12
मोघाशा मोघकर्माणो मोघज्ञाना विचेतस: ।
.
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिता: ॥ १२ ॥
9.13
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिता: ।
.
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३ ॥
9.14
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रता: ।
.
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ १४ ॥
9.15
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
.
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥
9.16
अहं क्रतुरहं यज्ञ: स्वधाहमहमौषधम् ।
.
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ १६ ॥
9.17
पिताहमस्य जगतो माता धाता पितामह: ।
.
वेद्यं पवित्रम् ॐकार ऋक् साम यजुरेव च ॥ १७ ॥
9.18
गतिर्भर्ता प्रभु: साक्षी निवास: शरणं सुहृत् ।
.
प्रभव: प्रलय: स्थानं निधानं बीजमव्ययम् ॥ १८ ॥
9.19
तपाम्य अहम अहं वर्षं निगृह्णाम्य उत्सृजामि च
.
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ १९ ॥
9.20
त्रैविद्या मां सोमपा: पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
.
ते पुण्यमासाद्य सुरेन्द्रलोक- मश्नन्ति दिव्यान्दिवि देवभोगान् ॥ २० ॥
9.21
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
.
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ २१ ॥
9.22
अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते ।
.
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ २२ ॥
9.23
येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विता: ।
.
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ २३ ॥
9.24
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
.
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ २४ ॥
9.25
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रता: ।
.
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ २५ ॥
9.26
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
.
तदहं भक्त्युपहृतमश्नामि प्रयतात्मन: ॥ २६ ॥
9.27
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
.
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ २७ ॥
9.28
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनै: ।
.
सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ २८ ॥
9.29
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रिय: ।
.
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ २९ ॥
9.30
अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
.
साधुरेव स मन्तव्य: सम्यग्व्यवसितो हि स: ॥ ३० ॥
9.31
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
.
कौन्तेय प्रतिजानीहि न मे भक्त: प्रणश्यति ॥ ३१ ॥
9.32
मां हि पार्थ व्यपाश्रित्य येऽपि स्यु: पापयोनय: ।
.
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ३२ ॥
9.33
किं पुनर्ब्राह्मणा: पुण्या भक्ता राजर्षयस्तथा ।
.
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ३३ ॥
9.34
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
.
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायण: ॥ ३४ ॥
<< предыдущий
|
Cледующий >>
другие языки:
Языковые пары:
Получить книгу:
Aвторское право:
Help:
Пожертвовать библиотеке Бхактиведанты